Advertica

 Bihar Board 10th Sanskrit Objective Answers सत्यप्रियता

Bihar Board 10th Sanskrit Objective Answers सत्यप्रियता

sanskrit 10th class textbook

class – 10

subject – sanskrit

lesson 18 – सत्यप्रियता

सत्यप्रियता

विधानचन्द्ररायः श्रेष्ठः राजनीतिज्ञः चिकित्कश्च आसीत् । भारतरत्नबिरुदभाक् सः पश्चिमबदालस्य मुख्यमंत्री आसीत् । अत्यन्त बुद्धिमान् सः छात्रदशायां प्रत्येक परीक्षायाम् अपि प्रथमस्थानं प्रप्नोति स्म । परं च एकदा सः महाविद्यालये परीक्षायाम् अनुत्तीर्णः जातः । सः प्रसङ्गः एवम् अस्ति!
एकदा महाविद्यालयस्य मुख्यद्वारस्य पुरतः स्थितवान् आसीत् । तस्मिन् समये एव महाविद्यालस्य प्राचार्यः स्वीयं यानं चालयन् महाविद्यालयम् आगच्छन् आसीत् । प्राचार्यः अजागरूकमतया वाहनं चालितवान् , येन मार्गे गच्छतः एकस्य पथिकस्य घट्टनं कृतं तस्य यानेन । सः पथिक : आहतः भूत्वा भूमौ पतितः दैवकृपया तस्य प्राणाः रक्षिताः ।
तदा एव तत्र आगतः आरक्षक : प्राचार्यस्य विरुद्ध प्रकरणं पञ्जीकृतवान् । विधानचन्द्रः प्राचार्यस्य एव विद्यार्थी । अस्याः घटनायाः प्रत्यक्षदर्शी सः एकः एव आसीत् । ‘ मदीय छात्र : मम विरुद्ध न्यायालये साक्ष्यं न वदिष्यति ‘ इति प्राचार्यस्य दृढः विश्वासः आसीत् । परं विधानचन्द्रः न्यायालये सत्यमेव अवर्णयत् । तेन न्यायाधीशः प्राचार्य दण्डितवान् । प्राचार्य : क्रुद्धः जातः । तस्य मनसि विधानचन्द्रस्य विषये दुर्भावना उत्पन्ना ।
तस्मिन् वर्षेऽपि वार्षिकपरीक्षायां विधानचन्द्रेण उत्तराणि सम्यक् एव लिखितानि । परं सः न्यूनान् अङ्कान् प्राप्तवान् । परीक्षायाम् अनुत्तीर्णश्च जातः । विधानचन्द्रः एतस्य कारणं ज्ञातवान् । तथापि सः तस्मिन् विषये किमपि न उक्तवान् । अनन्तवरर्षे पुनरपि परीक्षा लिखित्वा उत्तमैः अंकै: उत्तीर्णः जातः ।

प्राचार्यः विधानचन्द्रम् आहूय प्रोक्तवान्- ” विगते वर्षे भवान् परीक्षायाम् असफलतः जातः । एतस्य कारणं जानाति किम् ? इति ।
” आम् , जानमि । विगते वर्षे न्यायालये मया सत्यवचनम् उक्तम भवान् क्रुद्धः जातः । मां न्यूनान् दत्तवान् । अतः अहम् अनुत्तीर्ण जातः । भक्तु नाम । सत्यप्रियतायाः रक्षणे एकस्य वर्षस्य हानिः न महति ” इति ।
एतत् श्रुत्वा सः प्राचार्य : नितरां विस्मितः जातः । स्वस्य छात्रस्य पुरतः स्वयमेव लन्जितश्च अभवत् ।

हिन्दी रूपान्तर :
विधानचन्द्र राय श्रेष्ठ राजनीतिज्ञ और चिकित्सक थे । भारतरत्न से विभूषित वे पश्चिम बंगाल के मुख्यमंत्री रहे थे । अत्यन्त बुद्धिमान वे छात्र जीवन में प्रत्येक परीक्षा में प्रथम स्थान पाते थे । लेकिन एक बार वे महाविद्यालय परीक्षा में फेल हो गये । वह कहानी ऐसी है।
एक बार विधानचन्द्र महाविद्यालय के प्रवेशद्वार के सामने खड़े थे । उसी समय ही कॉलेज के प्राचार्य अपनी गाड़ी चलाते हुए कॉलेज आये थे । प्राचार्य सही ढंग से वाहन नहीं चला रहे थे जिसके कारण रास्ते पर जाते हुए एक राही को धक्का मार दिया गया उनके यान के द्वारा । राही जमीन पर घायल होकर गिर गया । भाग्य से उसका प्राण बच गया ।
उसी समय वहाँ सिपाही आया और प्राचार्य के विरुद्ध केस लिख लिया । विधानचन्द्र प्राचार्य के ही विद्यार्थी थे । इस घटना के प्रत्यक्षदर्शी ( गवाह ) वह ही एक थे । ” मेरा छात्र मेरे विरुद्ध कोर्ट में गवाही नहीं देगा ऐसा प्राचार्य को दृढ़ विश्वास था । लेकिन विधानचन्द्र ने न्यायालय में सही – सही कह दिया जिससे न्यायाधीश ने प्राचार्य को दण्डित किया । प्राचार्य गुस्सा हो गये । उनके मन में विधानचन्द्र के विषय में दुर्भावना उत्पन्न हो गयी ।
उस वर्ष में भी वार्षिक परीक्षा में विधानचन्द्र के द्वारा उत्तर सम्यक ही लिखे गये , परन्तु वे कम अंक प्राप्त किये तथा परीक्षा में फेल हो गये । विधानचन्द्र इसका कारण भी जान गये । इसके बाद भी वे उस विषय में कुछ नहीं बोले । दूसरे वर्ष पुनः परीक्षा में लिखकर उत्तम अंक से उत्तीर्ण हुए ।
प्राचार्य विधानचन्द्र को बुलाकर कहा- ” विगत वर्ष में आप परीक्षा में असफल रहे । इसका कारण जानते हो क्या ?
” हाँ जानता हूँ । विगत वर्ष में न्यायालय में मेरे द्वारा सत्य वचन बोला गया , जिससे आप गुस्सा हो गये । मुझे कम अंक दिये जिससे मैं फेल हो गया । यह आपका काम था । सत्यप्रियता की रक्षा करने में एक वर्ष की हानि कोई बड़ी हानि नहीं है । यह सुनकर वह प्राचार्य अत्यन्त आश्चर्य में पड़ गया । अपने ही छात्र के सामने वह स्वयं ही लज्जित हो गया ।

अभ्यास

प्रश्न : 1 , विधानचन्द्र रायः कः आसीत् ?
उत्तरम् – विधानचन्द्र रायः श्रेष्ठ : राजनीतिज्ञ चिकित्सकः च आसीत् ।
प्रश्न : 2. अयं कीदृशं छात्रः आसीत् ?
उत्तरम् – अयं बुद्धिमान् सत्यप्रिय : मेधावी च छात्रः आसीत् ।
प्रश्नः 3. विधानचन्द्र रायस्य प्राचार्यः कथं लज्जितः अभवत् ?
उत्तरम् – विधान चन्द्ररायस्य सत्यप्रियता बुद्धिमता च कारणात् सः लज्जितः अभवत् ।।

Previous Post Next Post