NCERT Class 9 Sanskrit Chapter 8 लौहतुला

 NCERT Class 9 Sanskrit Chapter 8 लौहतुला

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 8 लौहतुला

अभ्यासः

प्रश्न 1.
अधोलिखितानां प्रश्नानामुत्तराणि संस्कृतभाषया लिखत-

(क) देशान्तरं गन्तुमिच्छन् वणिक्पुत्रः किं व्यचिन्तयत् ?
उत्तर:
देशान्तरं गन्तुमिच्छन् वणिक्पुत्रः व्यचिन्तयत् ‘यत्र स्ववीर्यतः भोगाः भुक्ताः तस्मिन स्थाने यः विभवहीनः वसेत् सः पुरुषाधमः’ ।

(ख) स्वतुला याचमानं जीर्णधनं श्रेष्ठी किम् अकथयत्?
उत्तर:
स्वतुला याचमानं जीर्णधनं श्रेष्ठी अकथयत् ‘भोः! त्वदीया तुला मूषकैः भक्षिता’ इति। ..

(ग) जीर्णधनः गिरिगुहाद्वारं कया आच्छाद्य गृहमागतः?
उत्तर:
जीर्णधनः गिरिगहाद्वारं बहच्छिलया आच्छाद्य गहमागतः।

(घ) स्नानानन्तरं पुत्रविषये पृष्टः वणिक्पुत्रः श्रेष्टिनं किम उवाच?
उत्तर:
स्नानानन्तरं पुत्रविषये पृष्टः वणिक्पुत्रः श्रेष्ठिनं उवाच-“नदी तटात् सः बालः श्येनेन हृतः” इति। ,

(ङ) धर्माधिकारिभिः जीर्णधनश्रेष्ठिनौ कथं सन्तोषितौ?
उत्तर:
धर्माधिकारिभिः जीर्णधनश्रेष्ठिनौ “परस्परं संबोध्य तुला-शिशु-प्रदानेन सन्तोषितौ।

प्रश्न 2.
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत
(क) जीर्णधनः विभवक्षयात् देशान्तरं गन्तुमिच्छन् व्यचिन्तयत्।
उत्तर:
कः विभवक्षयात् देशान्तरं गन्तुमिच्छन् व्यचिन्तयत् ?

(ख) श्रेष्ठिनः शिशुः स्नानोपकरणमादाय अभ्यागतेन सह प्रस्थितः।
उत्तर:
श्रेष्ठिनः शिशुः स्नानोपकरणमादाय केन सह प्रस्थितः?

(ग) श्रेष्ठी उच्चस्वरेण उवाच-भोः अब्रह्मण्यम अब्रह्मण्यम्।
उत्तर:
श्रेष्ठी उच्चस्वरेण किम् उवाच?

(घ) सभ्यैः तौ परस्परं संबोध्य तुला-शिशु-प्रदानेन सन्तोषितौ।
उत्तर:
सभ्यैः तौ परस्परं संबोध्य कथं सन्तोषितौ?

प्रश्न 3.
अधोलिखितानां श्लोकानाम् अपूर्णोऽन्वयः प्रदत्तः पाठमाधृत्य तम् पूरयत्
उत्तर:
(क) यत्र देशे अथवा स्थाने स्ववीर्यतः भोगाः भुक्ता तस्मिन् विभवहीनः यः वसेत् स पुरुषाधमः।
(ख) राजन्। यत्र लौहसहस्रस्य तुलाम मूषकाः खादन्ति तत्र श्येनः बालकम् हरेत् अत्र संशयः न।

प्रश्न 4.
तत्पदं रेखाङ्कितं कुरुत यत्र
(क) ल्यप् प्रत्ययः नास्ति
विहस्य, लौहसहस्रस्य, संबोध्य, आदाय
उत्तर:
लौहसहस्रस्य।

(ख) यत्र द्वितीया विभक्तिः नास्ति
श्रेष्ठिनम्, स्नानोपकरणम्, सत्त्वरम्, कार्यकारणम्
उत्तर:
सत्त्वरम्।

(ग) यत्र षष्ठी विभक्तिः नास्ति
पश्यतः, स्ववीर्यतः, श्रेष्ठिनः, सभ्यानाम्
उत्तर:
स्ववीर्यतः।

प्रश्न 5.
सन्धिना सन्धिविच्छेदेन वा रिक्तस्थानानि पूरयत-
उत्तर:
(क) श्रेष्ठ्याह = श्रेष्ठी + आह
(ख) द्वावपि = द्वौ + अपि
(ग) पुरुषोपार्जिता = पुरुष + उपार्जिता
(घ) यथेच्छया = यथा + इच्छया
(ङ) स्नानोपकरणम् = स्नान + उपकरणम्
(च) स्नानार्थम् = स्नान + अर्थम्

प्रश्न 6.
समस्तपदं विग्रहं वा लिखत
विग्रहः – समस्तपदम्
(क) स्नानस्य उपकरणम् = स्नानोपकरणम।
(ख) गिरेः गुहायाम् = गिरिगुहायाम्।
(ग) धर्मस्य अधिकारी। = धर्माधिकारी।
(घ) विभवेन हीनाः = विभवहीनाः।

प्रश्न 7.
यथापेक्षम् अधोलिखितानां शब्दानां सहायतया “लौहतुला” इति कथायाः सारांश संस्कृतभाषया लिखत
वणिक्पुत्रः, लौहतुला, वृत्तान्तं, श्रेष्ठिनं, गतः
स्नानार्थम्, अयाचत्, ज्ञात्वा, प्रत्यागतः, प्रदानम्।
उत्तर:
कथायाः सारांश संस्कृतभाषायाम्

एकदा जीर्णधनः नाम वणिक्पुत्र धनक्षयात् देशान्तरं गन्तुम् अचिन्तयत् । तस्य गृहे एका लौहतुला आसीत्। तां कस्यचित् श्रेष्ठिनः गृहे निक्षेपभूतां कृत्वा सः देशान्तरं प्रस्थितः । देशान्तरं भ्रान्त्वा स्वपुरमं प्रत्यागत्य सः तुलामयाचत् । सः श्रेष्ठी प्रत्युवाच-“तुला तु मूषकैः भूषिता।”

ततः जीर्णधनः श्रेष्ठिनः पुत्रेण सह स्नानार्थं गतः। स्नात्वा सः श्रेष्ठि पुत्रं गिरिगुहायां . प्रक्षिप्य, तद्द्वारं च ब्रहच्छिलया आच्छाद्य गृहम् आगतः।

ततः सः वणिक् श्रेष्ठिनं स्वपुत्रविषये अपृच्छत्। 

वणिक उवाच “नदीतटात् सः श्यनेन हृतः” इति। सः शीघ्रमाह-“श्येनः बालं हर्तुं न शक्नोति। अतः समर्पय मे सुतम्।”

एवं विवदमानौ ते राजकुलं गतौ। सर्वं वृत्तान्तं ज्ञात्वा धर्माधिकारिभिः तुला-शिशु प्रदानेन तौ द्वौ सन्तोषितौ।

Previous Post Next Post