NCERT कक्षा 6 संस्कृत अध्याय 6 सूक्तिस्तबकः
अभ्यासः
प्रश्न 1.
सर्वान् श्लोकान् सस्वरं गायत।
(सभी श्लोकों को स्वर सहित गान करें)
प्रश्न 2.
श्लोकांशान् योजयत
(श्लोकांशों का मिलान करें)
उत्तर:
प्रश्न 3.
प्रश्नानाम् उत्तराणि लिखत
(प्रश्नों के उत्तर लिखें)
(क) सर्वे जन्तवः केन तुष्यन्ति?
(ख) पिककाकयोः भेदः कदा भवति?
(ग) कः गच्छन् योजनानां शतान्यपि याति?
(घ) अस्माभिः किं वक्तव्यम्?
उत्तर:
(क) सर्वे जन्तवः प्रियवाक्यप्रदानेन तुष्यन्ति।
(ख) पिककाकयोः भेदः वसन्तसमये भवति।
(ग) पिपीलकः गच्छन् योजनानां शतान्यपि याति।
(घ) अस्माभिः प्रियं वक्तव्यम्।
प्रश्न 4.
उचितकथनानां समक्षम् ‘आम्’ अनुचितकथनानां समक्षं-‘न’ इति लिखत
(उचित कथनों के सामने ‘आम्’ और अनुचित कथनों के सामने ‘न’ लिखें)
(क) काकः कृष्णः न भवति। ……………
(ख) अस्माभिः प्रियं वक्तव्यम्। ……………
(ग) वसन्तसमये पिककाकयोः भेदः भवति। ……………
(घ) वैनतेयः पशुः अस्ति। ……………
(ङ) वचने दरिद्रता न कर्त्तव्या। ……………
उत्तर:
(क) न।
(ख) आम्।
(ग) आम्।
(घ) न।
(ङ) आम्।
प्रश्न 5.
मञ्जूषातः समानार्थकानि पदानि चित्वा लिखत
(मंजूषा से समानार्थक पद चुनकर लिखें)
ग्रन्थे, कोकिलः, गरुड़ः, परिश्रमेण, कथने
वचने – …………
वैनतेयः – …………
पुस्तके – …………
उद्यमेन – …………
पिकः – …………
उत्तर:
वचने – कथने
वैनतेयः – गरुड़:
पुस्तके – परिश्रमेण
उद्यमेन – परिश्रमेण
पिकः – कोकिलः
प्रश्न 6.
विलोमपदानि योजयत
(विलोम पदों का मिलान करें)
उत्तर:
बहुविकल्पीयप्रश्नाः
अधोलिखितेषु विकल्पेषु समुचितम् उत्तरं चित्वा लिखत
(निम्नलिखित विकल्पों में से उचित उत्तर चुनकर लिखें।)
1. ‘सार्थकः’ इत्यत्र सन्धिविच्छेदः कार्यः।
(क) सा + अर्थकः
(ख) स + अर्थकः
(ग) सार्थ + अकः
उत्तर:
(ख) स + अर्थकः
2. ‘अगच्छन्’ इत्यत्र कः समासः?
(क) नञ् तत्पु०
(ख) बहुव्रीहिः
(ग) कर्मधारयः
उत्तर:
(क) नञ् तत्पु०
3. ‘तस्मात्’ इत्यत्र का विभक्तिः ?
(क) तृतीया
(ख) पञ्चमी
(ग) द्वितीया
उत्तर:
(ख) पञ्चमी
4. ‘नैव’ इत्यत्र सन्धिविच्छेदः कार्यः।
(क) ने + एव
(ख) न + इव
(ग) न + एव
उत्तर:
(ग) न + एव
पठित-अवबोधनम् ।
I. पठित-सामग्रीम् आधृत्य अवबोधनकार्यम्
अधोलिखितं पठित्वा प्रश्नानाम् उत्तराणि लिखत
(निम्नलिखित को पढ़कर प्रश्नों के उत्तर लिखें)
काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः।
वसन्तसमये प्राप्ते काकः काकः पिकः पिकः।।
I. एकपदेन उत्तरत
(क) काकः कीदृशः अस्ति?
(ख) पिकः कीदृशः अस्ति?
उत्तर:
(क) कृष्णः
(ख) कृष्णः
II. पूर्णवाक्येन उत्तरत
काकः काकः कदा भवति?
उत्तर:
वसन्तसमये काकः काकः भवति।
III. यथानिर्देशम् उत्तरत
(i) ‘कृष्णः’ इत्यस्य विलोमशब्दं लिखत।
(क) श्वेतः
(ख) पीतः
(ग) हरितः
(घ) नीलः
उत्तर:
(i) (क) श्वेतः
(ii) ‘प्राप्तः’ इत्यत्र सन्धिविच्छेदः कार्यः।
(क) प्रा + आप्तः
(ख) प्र + आप्तः
(ग) प्राप् + तः
(घ) प्र + अप्तः
उत्तर:
(ii) (ख) प्र + आप्तः
II. भावबोधनम्
प्रकार: ‘क’ रिक्तस्थानपूर्तिद्वारा समुचितपदेन रिक्तस्थानानि पूरयत, येन कथनानां भावो स्पष्टो भवेत्
(क) प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति मानवाः।
अस्य भावः अस्ति यत् सर्वे …………. प्रिय …………. प्रदानेन ………….
उत्तर:
सर्वे मनुष्याः प्रिय वचनस्य प्रदानेन संतुष्टाः भवन्ति।
III. अन्वयः
प्रकार: ‘क’ अन्वयलेखनद्वारा-
अधोलिखितस्य श्लोकस्य अन्वयं लिखत
गच्छन् पिपीलको याति योजनानां शतान्यपि।
अगच्छन् वैनतेयोऽपि पदमेकं न गच्छति।।
उत्तरम्-
गच्छन् पिपीलकः योजनानां शतान्यपि याति।
अगच्छन् वैनतेयः अपि एकं पदं न गच्छति।
प्रदत्तविकल्पेभ्यः उचितं उत्तरं चित्वा अन्वयपूर्तिः करणीया –
उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः।
न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः।।
अन्वयः-
(यथा) सुप्तस्य सिंहस्य ………… मृगाः न हि प्रविशन्ति। (तदैव) कार्याणि उद्यमेन
हि सिध्यन्ति मनोरथैः न (सिध्यन्ति)।
(क) गुफायः
(ख) तडागः
(ग) मुखे
(घ) वनः
उत्तरम्
(ग) मुखे।