NCERT Class 9 Sanskrit Chapter 4 कल्पतरूः

 NCERT Class 9 Sanskrit Chapter 4 कल्पतरूः

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 4 कल्पतरूः

अभ्यासः

प्रश्न 1.
अधोलिखितानां प्रश्नानाम. उत्तराणि संस्कृतभाषया लिखत
(क) कञ्चनपुरं नाम नगरं कुत्र विभाति स्म?
उत्तर:
कञ्चनपुरं नाम नगरं हिमालयपर्वतस्य सानोः उपरि विभाति स्म।

(ख) जीमूतकेतुः किं विचार्य जीमूतवाहनं यौवराज्ये अभिषिक्तवान्?
उत्तर:
स्वपुत्रस्य गुणैः प्रसन्नः स्वसचिवैश्च प्रेरितः जीमूतकेतुः सम्प्राप्तयौवनं जीमूतवाहनं यौवराज्ये अभिषिक्तवान्।

(ग) कल्पतरोः वैशिष्ट्यमाकर्ण्य जीमूतवाहनः किम् अचिन्तयत् ?
उत्तर:
कल्पतरोः वैशिष्ट्यमाकर्ण्य जीमूतवाहनः अचिन्तयत् “परोपकारैकफलसिद्धये इमं कल्पपादपम् आराधयामि”।

(घ) पाठानुसारं संसारेऽस्मिन् किं किं नश्वरम् किञ्च अनश्वरम् ?
उत्तर:
पाठानुसारं संसारेऽस्मिन् आशरीरमिदं सर्वं धनं नश्वरम्, एकः परोपकार एवानश्वरः।

(ङ) जीमूतवाहनस्य यशः सवत्र कथं प्रथितम् ?
उत्तर:
सर्वजीवानुकम्पया जीमूतवाहनस्य यशः सर्वत्र प्रथितम्।

प्रश्न 2.
अधोलिखितवाक्येषु स्थूलपदानि कस्मै प्रयुक्तानि?

(क) तस्य सानोरुपरि विभाति कञ्चनपुरं नाम नगरम् ।
उत्तर:
हिमवते।

(ख) राजा सम्प्राप्तयौवनं तं यौवराज्ये अभिषिक्तवान्?
उत्तर:
जीमूतवाहनाय।

(ग) अयं तव सदा पूज्यः।
उत्तर:
कल्पवृक्षाय।

(घ) तात्! त्वं तु जानासि यत् धनं वीचिवच्चञ्चलम् ।
उत्तर:
जीमूतकेतवे।

प्रश्न 3.
अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत
उत्तर:
(क) पर्वतः = नगेन्द्रः
(ख) भूपतिः = राजा
(ग) इन्द्रः = शक्रः
(घ) धनम् = अर्थः
(ङ) इच्छितम् = अर्थितः
(च) समीपम् = अन्तिकम्
(छ) धरित्रीम् = पृथ्वीम्
(ज) कल्याणम् = स्वास्ति, हितम
(झ) वाणी: = वक्र
(ञ) वृक्षः = तरुः

प्रश्न 4.
‘क’ स्तम्भे विशेषणानि ‘ख’ स्तम्भे च विशेष्याणि दत्तानि। तानि समुचितं योजयत
‘क’ स्तम्भः – ‘ख’ स्तम्भः
(क) कुलक्रमागतः – (1) परोपकारः
(ख) दानवीरः – (2) मन्त्रिभिः
(ग) हितैषिभिः – (3) जीमूतवाहनः
(घ) वीचिवच्चञ्चलम् – (4) कल्पतरुः
(ङ) अनश्वरः – (5) धनम्
उत्तर:
‘क’ स्तम्भः – ‘ख’ स्तम्भः
(क) कुलक्रमागतः – (4) कल्पतरुः
(ख) दानवीरः – (3) जीमूतवाहनः
(ग) हितैषिभिः – (2) मन्त्रिभिः
(घ) वीचिवच्चञ्चलम् – (5) धनम्
(ङ) अनश्वरः – (1) परोपकारः

प्रश्न 5.
(क) “स्वस्ति तुभ्यम्’ स्वस्ति शब्दस्य योगे चतुर्थी विभक्तिः भवति। इत्यनेन नियमेन अत्र चतुर्थी विभक्तिः प्रयुक्ता। एवमेव (कोष्ठकगतेषु पदेषु) चतुर्थी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत
उत्तर:
(i) स्वस्ति राज्ञे (राजा)।
(ii) स्वस्ति प्रजायै (प्रजा)।
(iii) स्वस्ति छात्राय (छात्र)।
(iv) स्वस्ति सर्वजनाय (सर्वजन)।

(ख) कोष्ठकगतेषु पदेषु पष्ठी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत
उत्तर:
(i) तस्य गृहस्य उद्याने कल्पतरुः आसीत्। (गृह)
(ii) सः पितुः अन्तिकम् अगच्छत्। (पित)।
(iii) जीमूतवाहनस्य सर्वत्र यशः प्रथितम्। (जीमूतवाहन)
(iv) अयं कस्य तरूः? (किम्)

प्रश्न 6.
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत
(क) तरोः कृपया सः पुत्रम् अप्राप्नोत्।
उत्तर:
कस्य कृपया सः पुत्रम् अप्राप्नोत्?

(ख) सः कल्पतखे न्यवेदयत्।
उत्तर:
सः कस्मै न्यवेदयत् ?

(ग) धनवृष्ट्या कोऽपि दरिद्रः नातिष्ठत्।
उत्तर:
कया कोऽपि दरिद्रः नातिष्ठत्?

(घ) कल्पतरुः पृथिव्यां धनानि अवर्षत्।
उत्तर:
कल्पतरुः कुत्र धनानि अवर्षत्?

(ङ) जीवानुकम्पया जीमूतवाहनस्य यशः प्रासरत्।
उत्तर:
कया जीमूतवाहनस्य यशः प्रासरत्?

प्रश्न 7.
(क) यथास्थान समास विग्रहं च कुरुत
उत्तर:
(i) विद्याधराणां पतिः = विद्याधरपति
(ii) गृहस्य उद्याने = गृहोद्याने
(iii) नगानाम् इन्द्र = नगेन्द्रः
(iv) परेषाम् उपकारः = परोपकारः
(v) जीवानाम् अनुकम्पया = जीवानुकम्पया

(ख) उदाहरणमनुसृत्य मतुप (मत्, वत्) प्रत्ययप्रयोगं कृत्या पदानि रचयत
यथा-
हिम + मतुप् : = हिमवान्।
श्री + मतुप् = श्रीमान्।
उत्तर:
(i) शक्ति + मतुप = शक्तिमान्।
(ii) धन + मतुप = धनवान्।
(iii) बुद्धि + मतुप = बुद्धिमान्
(iv) धैर्य + मतुप् = धैर्यवान।
(v) गुण + मतुप् = गुणवान्।


Previous Post Next Post