NCERT Class 9 Sanskrit Chapter 5 सूक्तिमौक्तिकम्

 NCERT Class 9 Sanskrit Chapter 5 सूक्तिमौक्तिकम्

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 5 सूक्तिमौक्तिकम्

अभ्यासः

प्रश्न 1.
अधोलिखितानां प्रश्नानामुत्तराणि संस्कृतभाषया लिखत

(क) यत्नेन किं रक्षेत् वित्तं वृत्तं वा?
उत्तर:
यत्नेन वृत्तं रक्षेत्।

(ख) अस्माभिः (किं न समाचरेत्) कीदृशम् आचरणं न कर्तव्यम्?
उत्तर:
अस्माभिः आत्मनः प्रतिकूलम् आचरणं न कर्तव्यम्।

(ग) जन्तवः केन विधिना तुष्यन्ति?
उत्तर:
जन्तवः प्रियवाक्यप्रदानेन तुष्यन्ति।

(घ) पुरुषैः किमर्थं प्रयत्नः कर्तव्यः?
उत्तर:
पुरुषै गुणेष्वेव प्रयत्नः कर्तव्यः।

(ङ) सज्जनानां मैत्री कीदृशी भवति?
उत्तर:
सज्जनानां मैत्री पुरा लघ्वी पश्चात् च वृद्धिमती भवति।

(च) सरोवराणां हानिः कदा भवति?
उत्तर:
मरालैः सह वियोगेण सरोवराणां हानिः भवति।।

(छ) नद्याः जलं कदा अपेयं भवति?
उत्तर:
भाद्रमासाद्य नद्याः जलम् अपेयं भवति।

प्रश्न 2.
‘क’ स्तम्भे विशेषणानि ‘ख’ स्तम्भे च विशेष्याणि दत्तानि, तानि यथोचितं योजयत
‘क’ स्तम्भः – ‘ख’ स्तम्भः
(क) आस्वाद्यतोयाः – (1) खलानां मैत्री
(ख) गुणयुक्तः – (2) सज्जनानां मैत्री
(ग) दिनस्य पूर्वार्द्धभिन्ना – (3) नद्यः
(घ) दिनस्य परार्द्धभिन्ना – (4) दरिद्रः
उत्तर:
‘क’ स्तम्भः – ‘ख’ स्तम्भः
(क) आस्वाद्यतोयाः – (3) नद्यः
(ख) गुणयुक्तः – (4) दरिद्रः
(ग) दिनस्य पूर्वार्द्धभिन्ना – (1) खलानां मैत्री
(घ) दिनस्य परार्द्धभिन्ना – (2) सज्जनानां मैत्री

प्रश्न 3.
अधोलिखितयोः श्लोकद्वयोः आशयं हिन्दीभाषया आङ्ग्लभाषया वा लिखत
(क) आरम्भगुर्वी क्षयिणी क्रमेण
लघ्वी पुरा वृद्धिमती च पश्चात्।
दिनस्य पूर्वार्द्रपरार्द्धभिन्ना।
छायेव मैत्री खलसज्जनानाम्।।
उत्तर:
भाव हिन्दी में-दुष्टों और सज्जनों की मित्रता में अंतर स्पष्ट करते हुए आचार्य भर्तहरि कहते हैं कि जिस प्रकार छाया दिन के आरम्भ में बडी होती है तथा धीरे-धीरे छोटी होती जाती है। उसी प्रकार दुष्टों की मित्रता पहले गहरी होती है और धीरे-धीरे कम होती जाती है। इसके विपरीत जिस प्रकार दोपहर में छाया छोटी होती है, धीरे-धीरे बढ़ती है, इसी प्रकार सज्जनों की मित्रता पहले कम तथा धीरे-धीरे दूसरे के गुण-स्वभाव आदि समझकर बढ़ती है।

(ख) प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।
तस्मात्तदेवः वक्तव्यं वचने का दरिद्रता।।
उत्तर:
भाव-मधुर वचन बोलने से सभी प्रसन्न होते हैं, अतः मनुष्य को मधुर वचन बोलने में कृपणता नहीं बरतनी चाहिए।

प्रश्न 4.
अधोलिखितपदेभ्यः भिन्नप्रकृतिकं पदं चित्वा लिखत

(क) वक्तव्यम्, कर्त्तव्यम्, सर्वस्वम्, हन्तव्यम्।
उत्तर:
सर्वस्वम्।।

(ख) यत्नेन, वचने, प्रियवाक्यप्रदानेन, मरालेन।
उत्तर:
मरालेन।

(ग) श्रूयताम्, अवधार्यताम्, धनवताम्, क्षम्यताम्।।
उत्तर:
धनवताम्।

(घ) जन्तवः, नद्यः, विभूतयः, परितः।
उत्तर:
परितः।

प्रश्न 5.
स्थूलपदान्यधिकृत्य प्रश्नवाक्यनिर्माणं कुरुत
(क) वृत्ततः क्षीणः हतः भवति।
उत्तर:
कस्मात् क्षीणः हतः भवति?

(ख) धर्मसर्वस्वं श्रुत्वा अवधार्यताम्।
उत्तर:
किं श्रुत्वा अवधार्यताम् ?

(ग) वृक्षाः फलं न खादन्ति।
उत्तर:
के फलं न खादन्ति?

(घ) खलानाम् मैत्री आरम्भगुर्वी भवति।
उत्तर:
केषाम् मैत्री आरम्भगुर्वी भवति?

प्रश्न 6.
अधोलिखितानि वाक्यानि लोट्लकारे परिवर्तयत-
यथा-
सः पाठं पठति। – सः पाठं पठतु।
उत्तर:
(क) नद्यः आस्वाद्यतोयाः सन्ति – नद्य आस्वाधतोयाः सन्तु।
(ख) सः सदैव प्रियवाक्यं वदति – सः सदैव प्रियवाक्यं वदतु।
(ग) त्वं परेषां प्रतिकूलानि न समाचरसि – त्वं परेषां प्रतिकूलानि न समाचर।
(घ) ते वृत्तं यत्नेन संरक्षन्ति – ते वृत्तं यत्नेन संरक्षन्तु।
(ङ) अहं परोपकाराय कार्यं करोमि – अहं परोपकराय कार्य करवाणि।

प्रश्न 7.
उदाहरणमनुसृत्य कोष्ठकेषु दत्तेषु शब्देषु उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत यथा- तेषां मरालेः सह विप्रयोगः भवति। (मराल)
उत्तर:
(क) अध्यापकैः सह छात्रः शोधकार्यं करोति। (अध्यापक)
(ख) पित्रा सह पुत्र आपणं गतवान्। (पित)
(ग) किं त्वम् मुनिना सह मन्दिरं गच्छसि? (मुनि)
(घ) बालः मित्रेण सह खेलितुं गच्छति। (मित्रम्)


Previous Post Next Post