NCERT Class 8 Sanskrit Chapter 10 नीतिनवनीतम्
NCERT Solutions for Class 8 Sanskrit Ruchira Chapter 10 नीतिनवनीतम्
अभ्यासः
प्रश्न 1.
अधोलिखितानि प्रश्नानाम् उत्तराणि एकपदेन लिखत-
(क) नृणां संभवे कौ क्लेशं सहेते?
उत्तरम्:
मातापितरौ।
(ख) कीदृशं जलं पिबेत्?
उत्तरम्:
वस्त्रपूतम्।
(ग) नीतिनवनीतम् पाठः कस्मात् ग्रन्थात् सङ्कलित?
उत्तरम्:
मनुस्मृतेः।
(घ) कीदृशीं वाचं वदेत्?
उत्तरम्:
सत्यपूताम्।
(ङ) उद्यानम् कैः निनादै: रम्यम्?
उत्तरम्:
भृङ्गैः।
(च) दुःखं किं भवति?
उत्तरम्:
परवशम्।
(छ) आत्मवशं किं भवति?
उत्तरम्:
सुखम्।
(ज) कीदृशं कर्म समाचरेत्?
उत्तरम्:
मनः पूतम्।
प्रश्न 2.
अधोलिखिताना प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत-
(क) पाठेऽस्मिन् सुखदु:खयों: किं लक्षणम् उक्तम्?
उत्तरम्:
पाठेऽस्मिन् सुखदुःखयोः लक्षणम् इदम् उक्तम्-सर्वपरवशं दुःखम्, सर्वम् आत्मवशं सुखम् इति।
(ख) वर्षशतैः अपि कस्य निष्कृतिः कर्तुं न शक्या?
उत्तरम्:
वर्षशतैः अपि तस्य (मातापित्रोः कष्टस्य) निष्टकृतिः कर्तुं न शक्या।
(ग) “त्रिषु तुष्टेषु तपः समाप्यते”-वाक्येऽस्मिन् त्रयः के सन्ति?
उत्तरम्:
मातापितरौ आचार्यः च त्रयः सन्ति।
(घ) अस्माभिः कीदृशं कर्म कर्तव्यम्?
उत्तरम्:
अस्माभिः अन्तरात्मनः परितोष कर्म कर्तव्यम्।
(ङ) अभिवादनशीलस्य कानि वर्धन्ते?
उत्तरम्:
अभिवादनशीलस्य आयुर्विद्या यशोबलानि वधन्ते।
(च) सर्वदा केषां प्रियं कुर्यात्?
उत्तरम्:
सर्वदा मातृपितृ-आचार्याणां प्रियं कुर्यात।
प्रश्न 3.
स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत-
(क) वृद्धोपेसेविनः आयुर्विद्या यशो बलं न वर्धन्ते।
उत्तरम्:
कस्य आयुर्विद्या यशो बलं न वर्धन्ते।
(ख) मनुष्यः सत्यपूतां वाचं वदेत्।
उत्तरम्:
मनुष्यः कीदृशीं वाचं वदेत्?
(ग) त्रिषु तुष्टेषु सर्व तपः समाप्यते?
उत्तरम्:
त्रिषु तुष्टेषु सर्व किम् समाप्यते?
(घ) मातापितरौ नृणां सम्भवे क्लेशं सहेते।
उत्तरम्:
को नृणां सम्भवे क्लेशं सहेते?
(ङ) तयोः नित्यं प्रियं कुर्यात्।
उत्तरम्:
तयोः नित्यं किम् कुर्यात्?
प्रश्न 4.
संस्कृतभाषयां वाक्यप्रयोगं कुरुत-
(क) विद्या
उत्तरम्:
विद्या – विद्या भोगकरी यशःकरी अर्थकरी च भवति।
(ख) तपः
उत्तरम्:
तपः – मातृपितृगुरुणां सेवा एवं महत् तपः।
(ग) समाचरेत्
उत्तरम्:
समाचरेत् – सर्वदा मनसा पूतं व्यवहारं समाचरेत्।
(घ) परितोषः
उत्तरम्:
परितोषः – आत्मनः परितोषः एव सुखकरः।
(ङ) नित्यम्
उत्तरम्:
नित्यम् – मानवैः नित्यं सत्कर्म आचरितव्यम्।
प्रश्न 5.
शुद्धवाक्यानां समक्षम् आम् अशुद्धवाक्यानां समक्षं च नैव इति लिखत-
(क) अभिवादनशीलस्य किमपि न वर्धते।
उत्तरम्:
नैव।
(ख) मातापितरौ नृणां सम्भवे कष्टं सहेते।
उत्तरम्:
आम्।
(ग) आत्मवशं तु सर्वमेव दुःखमस्ति।
उत्तरम्:
नैव।
(घ) येन पितरौ आचार्यः च सन्तुष्टाः तस्य सर्वं तपः समाप्यते।
उत्तरम्:
आम्।
(ङ) मनुष्यः सदैव मनः पूतं समाचरेत्।
उत्तरम्:
आम्।
(च) मनुष्यः सदैव तदेव कर्म कुर्यात् येनान्तरात्मा तुष्यते।
उत्तरम्:
आम्।
प्रश्न 6.
समुचितपदने रिक्तस्थानानि पूरयत-
(क) मातापित्रे: तपसः निष्कृतिः __________ कर्तुमशक्या। (दशवरपि / षष्टिः वरपि / वर्षशतैरपि)।
(ख) नित्यं वृद्धोपसेविनः __________ वर्धन्ते। (चत्वारि / पञ्च / षट्)।
(ग) त्रिषु तुष्टेषु __________ सर्व समाप्यते। (जप: / तप / कम)।
(घ) एतत् विद्यात् __________ लक्षणं सुखदु:खयोः। (शरीरेण / समासेन / विस्तारेण)
(ङ) दृष्टिपूतम् न्यसेत् __________। (हस्तम् / पादम् / मुखम्)
(च) मनुष्यः मातापित्रो: आचार्यस्यय च सर्वदा __________ कुर्यात्। (प्रियम् / अप्रियम् / अकार्यम्)
उत्तरम्:
(क) मातापित्रेः तपसः निष्कृतिः वर्षशतैरपि कर्तुमशक्या।
(ख) नित्यं वृद्धोपसेविन: चत्वारि वर्धन्ते।
(ग) त्रिषु तुष्टेषु तपः सर्व समाप्यते।
(घ) एतत् विद्यात् समासेन लक्षणं सुखदुःखयोः।
(ङ) दृष्टिपूतम् न्यसेत् पादम्।
(च) मनुष्यः मातापित्रोः आचार्यस्यय च सर्वदा प्रियम् कुर्यात्।
प्रश्न 7.
मञ्जूषातः चित्वा उचिताव्ययेन वाक्यपूर्ति कुरुत-
तावत्, अपि, एव, यथा, नित्यं, यादृशम्।
(क) तयोः ____________ प्रियं कुर्यात्।
(ख) ____________ कर्म करिष्यसि। तादृशं फलं प्राप्स्यसि।
(ग) वर्षशतैः ____________ निष्कृतिः न कर्तुं शक्या।
(घ) तेषु ____________ त्रिषु तुष्टेषु तपः समाप्यते।
(ङ) ____________ राजा तथा प्रजा।
(च) यावत् सफलः न भवति ____________ परिश्रमं कुरु।
उत्तरम्:
(क) तयोः नित्यं प्रियं कुर्यात्।
(ख) यादृशं कर्म करिष्यसि। तादृशं फलं प्राप्स्यसि।
(ग) वर्षशतैः अपि निष्कृतिः न कर्तु शक्या।
(घ) तेषु एव त्रिषु तुष्टेषु तपः समाप्यते।
(ङ) यथा राजा तथा प्रजा।
(च) यावत् सफलः न भवति तावत् परिश्रमं कुरु।