NCERT Class 8 Sanskrit Chapter 2 बिलस्य वाणी न कदापि में श्रुता

NCERT Solutions for Class 8 Sanskrit Ruchira Chapter 2 बिलस्य वाणी न कदापि में श्रुता

अभ्यासः

प्रश्न 1.
उच्चारणं कुरुत-
NCERT Solutions for Class 8 Sanskrit Chapter 2 बिलस्य वाणी न कदापि में श्रुता Q1

उत्तरम्:
शिक्षकसहायतया स्वयमेव च शुद्धम् उच्चारणं कुरुत।

प्रश्न 2.
एकपदेन उत्तरं लिखत-
(क) सिंहस्य नाम किम्?
उत्तरम्:
खरनखरः।

(ख) गुहायाः स्वामी कः आसीत्?
उत्तरम्:
दधिपुच्छ:/शृगालः।

(ग) सिंहः कस्मिन् समये गुहायाः समीपे आगतः?
उत्तरम्:
सुर्यास्तसमये

(घ) हस्तपादादिकाः क्रियाः केषां न प्रवर्तन्ते?
उत्तरम्:
भयसंत्रस्तमनसाम्

(ड) गुहा केन प्रतिध्वनिता?
उत्तरम्:
सिंहोच्चगर्जन-प्रतिध्वनिना।

प्रश्न 3.
मञ्जूषातः अव्ययपदं चित्वा वाक्यानि पूरयत-
सदा बहिः दूरं तावत् तर्हि तदा
(क) यदा दशवादनं भवति _________ छात्राः विद्यालयं गच्छन्ति।
(ख) सूर्यः पूर्वदिशायां _________ उदेति।
(ग) शृगालः गुहायाः _________ आसीत्।
(घ) स च यावत् पश्यति, _________ सिंहपदपद्धतिः गुहायां प्रविष्टा दृश्यते।
(ङ) शृगालोऽपि ततः _________ पलायमानः अपठत्।
(च) यदि सफलताम् इच्छसि _________ आलस्यं त्यज।
उत्तरम्:
(क) यदा दशवादनं भवति तदा छात्राः विद्यालय गच्छन्ति।
(ख) सूर्यः पूर्वदिशायां सदा उदेति।
(ग) शृगालः गुहायाः बहिः आसीन्।
(घ) स च यावत् पश्यति, तावत् सिंहपदपद्धतिः गुहायां प्रविष्टा दृश्यते।
(ङ) शृगालोऽपि तत: दूरं पलापमान: अपठत्।
(च) यदि सफलताम् इच्छसि तहिं आलस्यं त्यज।

प्रश्न 4.
पूर्णवाक्येन उत्तरत-
(क) खरनखरः कुत्र प्रतिवसति स्म?
उत्तरम्:
खरनखरः कस्मिंश्चित् वने प्रतिवसति स्म।

(ख) महती गुहां दृष्ट्वा सिंहः किम् अचिन्तयत्?
उत्तरम्:
महतीं गुहां दृष्ट्वा सिंहः अचिन्तयत्-“नूनम् एतस्यां गुहायां रात्रौ कोऽपि जीवः आगच्छति। अतः अत्रैव निगूढो भूत्वा तिष्ठामि” इति।

(ग) शृगालः किम् अचिन्तयत्?
उत्तरम्:
शृगालः अचिन्तयत्-“अहो विनष्टोऽस्मि। नूनम् अस्मिन् बिले सिंहः अस्ति। अतः अस्य परीक्षणं करणीयम्।”

(घ) शृगालः कुत्र पलायित:?
उत्तरम्:
शृगालः दूरं पलायितः।

(ङ) किं विचार्य सिंहः शृगालस्य आह्वानमकरोत्?
उत्तरम्:
नूनमेषा गुहा स्वामिनः सदा समाह्वानं करोति। परन्तु मद्भयात् न किञ्चित् वदति” इति विचार्य सिंहः शृगालस्य आह्वानमकरोत्।

(च) अस्या कथायां कस्य चातुर्य निरूपित सिंहस्य शृगालस्य वा?
उत्तरम्:
अस्या कथायां शृगालस्य चातुर्य निरूपितम्।

प्रश्न 5.
मञ्जूषातः अव्ययपदानि चित्वा रिक्तस्थानानि पूरयत-

सहसा दूरे क्रमशः यदा तदा परन्तु यदि तर्हि

एकस्मिन् वने कश्चन व्याधः जाल विस्तीर्य _____________ स्थितः। _____________ आकाशे सपरिवारः कपोतराजः चित्रग्रीवः निर्गतः। _____________ तण्डुलकणानामुपरि कपोतानां लोभो जातः। _____________ राजा तत्र सहमतः नासीत्। तस्य युक्तिः आसीत् _____________ निर्जने वने कोऽपि मनुष्यो नास्ति _____________ कुतो वा तण्डुलकणानां सम्भवः? _____________ राज्ञः उपदेशमस्वीकृत्य ते नीचैः आगता, _____________ जाले निपतिताः। अतः उक्तम् _____________ विदधीत न क्रियाम्।
उत्तरम्:
एकस्मिन् वने कश्चन व्याधः जाल विस्तीर्य दूरे स्थितः। क्रमशः आकाशे सपरिवारः कपोतराजः चित्रग्रीवः निर्गतः। तदा तण्डुलकणानामुपरि कपोतानां लोभो जातः। परन्तु राजा तत्र सहमतः नासीत्। तस्य युक्तिः आसीत् यदि निर्जने वने कोऽपि मनुष्यो नास्ति तर्हि कुतो वा तण्डुलकणानां सम्भवः? यदा राज्ञः उपदेशमस्वीकृत्य ते नीचैः आगता, तदा जाले निपतिताः। अतः उक्तम् “सहसा विदधीत न क्रियाम्”।

प्रश्न 6.
घटनाक्रमानुसारं वाक्यानि लिखत-
(क) गुहायाः स्वामी दधिपुच्छ: नाम शृगालः समागच्छत्।
(ख) सिंह: एका महतीं गुहाम् अपश्यत्।
(ग) परिभ्रमन् सिंहः क्षुधार्ता जातः।
(घ) दूरस्थः शृगालः रवं कर्तुमारब्धः।
(ङ) सिंहः शृगालस्य आह्वानमकरोत्।
(च) दूरं पलायमानः शृगालः श्लोकमपठत्।
(छ) गुहायां कोऽपि अस्ति इति शृगालस्य विचारः।
उत्तरम्:
(ग) परिभ्रमन् सिंहः क्षुधा” जातः।
(ख) सिंह: एकां महती गुहाम् अपश्यत्।
(क) गुहायाः स्वामी दधिपुच्छ: नाम शृगाल: समागच्छत्।
(छ) गुहायां कोऽपि अस्ति इति शृगालस्य विचार:।
(घ) दूरस्थः शृगालः रवं कर्तुमारब्धः।
(ङ) सिंहः शृगालस्य आह्वानमकरोत्।
(च) दूरं पलायमानः शृगालः श्लोकमपठत्।

Previous Post Next Post