NCERT Class 9 Hindi Chapter 10 जटायोः शौर्यम्

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 10 जटायोः शौर्यम्

अभ्यासः

प्रश्न 1.
अधोलिखितानां प्रश्नानामुत्तराणि संस्कृतभाषया लिखत-

(क) “जटायो! पश्य” इति का वदति?
उत्तर:
“जटायो! पश्य” इति सीता वदति।

(ख) जटायुः रावणं किं कथयति?
उत्तर:
जटायु रावणम् अकथयत्-“परदाराभिमर्शनात् नीचां मतिं निवर्तय। चीरः तत् न समाचरेत् यत् परः अस्य विगर्हयेत्।।”

(ग) क्रोधवशात् रावणः किं कर्तुम् उद्यतः अभवत्?
उत्तर:
क्रोधवशात् रावणः वामेनाङ्केन वैदेही संपरिष्वज्य तलेन आशु जटायुम् अभिजघान पात?

(घ) पतगेश्वरः रावणस्य कीदृशं चापं सशरं बभज?
उत्तर:
पतगेश्वरः रावणस्य मुक्तामणिविभूषितं सशरं चापं बभञ्ज।

(ङ) हताश्वो हतसारथिः रावणः कुत्र अपतत्?
उत्तर:
हताश्वो हतसारथिः रावणः भुवि अपतत्।

प्रश्न 2.
उदाहरणमनुसृत्य णिनि-प्रत्ययप्रयोगं कृत्वा पदानि रचयत यथा-
गुण + णिनि = गुणिन् (गुणी)
दान + णिनि = दानिन् (दानी)
उत्तर:
(क) कवच + णिनि = कवचिन् (कवची)
(ख) शर + णिनि = शरिन् (शरी)
(ग) कुशल + णिनि = कुशालिन् (कुशली)
(घ) धन + णिनि = धनिन् (धनी)
(ङ) दण्ड + णिनि = दण्डिन (दण्डी)

प्रश्न 3.
रावणस्य जटायोश्च विशेषणानि सम्मिलितरूपेण लिखितानि तानि पृथक्-पृथक् कृत्वा लिखत-
युवा, सशरः, वृद्धः, हताश्वः, महाबलः, पतगसत्तमः, भग्नधन्वा, महागृध्रः, खगाधिपः, क्रोधमूर्छितः, पतगेश्वरः, सरथः, कवची, शरी।
रावणः – जटायः
युवा – वृद्धः
उत्तर:
(क) सशरः – (क) महाबलः
(ख) हताश्वः – (ख) पतगसत्तमः
(ग) भग्नधन्वा – (ग) महागृध्रः
(घ) क्रोधमूर्छितः – (घ) खगाधिपः
(ङ) सरथः – (ङ) पतगेश्वरः
(च) कवची – (छ) शरी

प्रश्न 4.
सन्धि/सन्धिविच्छेदं वा कुरुत यथा
च + आदाय = चादाय
उत्तर:
(क) हत + अश्वः = हताश्वः
(ख) तुण्डेन + अस्य = तुण्डेनास्य
(ग) बभञ्ज + अस्य = बभञ्जास्य
(घ) अङ्केन + आदाय = अङ्केनादाय
(ङ) खग + अधिपः = खगाधिपः

प्रश्न 5.
‘क’ स्तम्भे लिखितानां पदानां पर्यायाः ‘ख’ स्तम्भे लिखिताः। तान् यथा समयोजयत
‘क’ स्तम्भः – ‘ख’ स्तम्भः
(क) कवची – (1) अपतत्
(ख) आशु – (2) पक्षिश्रेष्ठः
(ग) बिरथः – (3) पृथिव्याम्
(घ) पपात – (4) कवचधारी
(ङ) भुवि – (5) शीघ्रम्
(च) पतगसत्तमः – (5) रथविहीनः
उत्तर:
(क) कवची – (1) कवचधारी
(ख) आशु – (2) शीघ्रम्
(ग) बिरथः – (3) रथविहीनः
(घ) पपात – (4) अपतत्
(ङ) भुवि – (5) पृथिव्याम्
(च) पतगसत्तमः – (5) पक्षिश्रेष्ठः

प्रश्न 6.
अधोलिखितानां पदानां/विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्षं लिखत
मन्दम्, पुण्यकर्मणा, हसन्ती, अनार्य, अनतिक्रम्य, प्रदाय, देवेन्द्रेण, प्रशंसेत् दक्षिणेन, युवा।
उत्तर:
पदानि – विलोमशब्दाः
(क) विलपन्ती – हसन्ती
(ख) आर्य – अनार्य
(ग) राक्षसेन्द्रेण – देवेन्द्रेण
(घ) पापकर्मणा – पुण्यकर्मणा
(ङ) क्षिप्रम् – मन्दम्
(च) विगर्हयेत – प्रशंसेतु
(छ) वृद्धः – युवा
(ज) आदाय – प्रदाय
(झ) वामेन – दक्षिणेन
(ञ) अतिक्रम्य – अनतिक्रम्य

प्रश्न 7.
(क) अधोलिखितानि विशेषणपदानि प्रयुज्य संस्कृतवाक्यानि रचयत
उत्तर:
(i) शुभाम् = जटायुं रावणं शुभां गिरम् व्याजहार।
(ii) हतसारथिः = हतसारथिः रावणः भुवि अपतत्।
(iii) कवची = रावणः कवची आसीत्।
(iv) खगाधिपः = खगाधिपः जटायुः रावणस्य गात्रे व्रणान् अकरोत्।
(v) वामेन = रावणः वामेन अङ्केन वैदेहीम् अधारयत्।।

(ख) उदाहरणमनुसृत्य समस्तपदं रचयत-
उत्तर:
यथा-त्रयाणां लोकानां समाहारः = त्रिलोकी।
(i) पञ्चानां वटानां समाहारः = पञ्चवटी।
(ii) सप्तानां पदानां समाहारः = सप्तपदी।
(iii) अष्टानां भुजानां समाहारः = अष्टभुजी।
(iv) चतुर्णां मुखानां समाहारः = चतुर्मुखी।

Previous Post Next Post